(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.119. अध्यायः 119
Mahabharata - Drona Parva - Chapter Topics
सात्यकिपराक्रमवर्णनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

`सञ्जय उवाच। 7-119-0x(4562)(49717)
निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे।
स सात्यकिः सत्यधृतिर्महात्मा शिनिपुङ्गवः॥ 7-119-1(49718)
*दुर्योधनं च निर्जित्य शूरं चैव सुयोधनम्।
जलसन्धं निहत्याजौ शूरसेनं च पार्थिवम्॥ 7-119-2(49719)
म्लेच्छांश्च बहुधा राजन्काश्यपुत्रं च संयुगे।
निषादांस्तङ्कणांश्चैव कलिङ्गान्मगधानपि॥ 7-119-3(49720)
केकयाञ्छूरसेनांश्च तथा पर्वतवासिनः।
काम्भोजान्यवनांश्चैव वसातींश्च शिबीनपि॥ 7-119-4(49721)
कोसलान्मगधांश्चैव यातुधानान्सतित्तिरान्।
एतांश्चान्यान्रणे हत्वाऽगच्छद्युद्धे स सात्यकिः॥ 7-119-5(49722)
रुधिरौघनदीं घोरां केशशैवालशाद्वलाम्।
शक्तिग्राहसमाकीर्णां छत्रहंसोपशोभिताम्॥ 7-119-6(49723)
दुस्तरां भीरुभिर्नित्यं शूरलोकप्रवाहिनीम्।
प्रवर्त्य हृषितो राजन्पुनर्यन्तारमब्रवीत्॥ 7-119-7(49724)
ध्वजनागाश्वकलिलं शरशक्त्यूर्मिमालिनम्'।
खङ्कमत्स्यं गदाग्राहं शूरायुधमहास्वनम्॥ 7-119-8(49725)
प्राणापहारिणं रौद्रं वादित्रोद्धुष्टनादितम्।
शूराणां सुखसंस्पर्शमस्पृश्यमथ भीरुणाम्।
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्॥ 7-119-9(49726)
जलसन्धबलेनाजौ पुरुषादैरिवावृतम्।
अतोऽन्यत्पृतनाशेषं मन्ये कुनदिकामिव॥ 7-119-10(49727)
तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम्।
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम्॥ 7-119-11(49728)
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे।
हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम्॥ 7-119-12(49729)
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः।
वह्नेरिव प्रदीप्तस्य वने शुष्कतृणालयम्॥ 7-119-13(49730)
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना।
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्॥ 7-119-14(49731)
द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना।
रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे।
कौशेयारुणसंकाशमेतदुद्वूयते रजः॥ 7-119-15(49732)
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्॥ 7-119-16(49733)
श्रूयते ह्येष निर्घोषो जलदस्येव गर्जतः।
विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः॥ 7-119-17(49734)
अभ्याशस्थमहं मन्ये सैन्धवस्य किरीटिनम्।
तादृशः श्रूयते शब्दः सैन्यानां सागरोपमः॥ 7-119-18(49735)
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः॥ 7-119-19(49736)
शनैर्विस्रम्भयन्नश्वान्याहि यत्रारिवाहिनी॥ 7-119-20(49737)
यत्रैते सतलत्रामाः सुयोधनपुरोगमाः।
दंशिताः क्रूरकर्माणः काम्भोजा युद्धदुर्मदाः॥ 7-119-21(49738)
शरबाणासनधरा यवनाश्च प्रहारिणः।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः॥ 7-119-22(49739)
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः॥ 7-119-23(49740)
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय॥ 7-119-24(49741)
सूत उवाच। 7-119-25x(4563)
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम।
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः॥ 7-119-25(49742)
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा।
तथापि सम्भ्रामो न स्यात्त्वामाश्रित्य महाभुज॥ 7-119-26(49743)
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन।
दंशिताःक्रूरकर्माणः काम्भोजा युद्धदुर्मदाः॥ 7-119-27(49744)
शरवाणासनधरा यवनाश्च प्रहारिणः।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः॥ 7-119-28(49745)
न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कथञ्चन।
किमुतैतत्समासाद्य धीरं संयुगगोष्पदम्॥ 7-119-29(49746)
आयुष्मन्कतरेण त्वां प्रापयामि धनञ्जयम्।
केभ्यः क्रुद्धोऽसि वार्ष्णेय कान्स्विन्मृत्युरुपस्थितः॥ 7-119-30(49747)
केषां सङ्घमनीकस्य हन्तुमुत्सहते मनः।
केत्वां युधि पराक्रान्तं कालान्तकयमोपमम्॥ 7-119-31(49748)
दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे।
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज॥ 7-119-32(49749)
सात्यकिरुवाच। 7-119-33x(4564)
मुण्डानेतान्हनिष्यामि दानवानिव वासवः।
प्रतिज्ञां पारयिष्यामि काम्भोजानेव मां वह॥ 7-119-33(49750)
xxxxxकदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम्॥ 7-119-34(49751)
xxxxxयन्ति मे वीर्यं कौरवाः ससुयोधनाः।
xxxxxxनाके हते सूत सर्वसैन्येषु चासकृत्॥ 7-119-35(49752)
अद्य कौरवसैन्यस्य दीर्घमाणस्य संयुगे।
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः॥ 7-119-36(49753)
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः।
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे॥ 7-119-37(49754)
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति॥ 7-119-38(49755)
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः॥ 7-119-39(49756)
मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः।
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः॥ 7-119-40(49757)
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान्।
द्विफल्गुनामिमं लोकं मंस्यतेऽद्य सुयोधनः॥ 7-119-41(49758)
अद्य राजसहस्राणि निहतानि मया रणे।
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे॥ 7-119-42(49759)
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु।
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु॥ 7-119-43(49760)
बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः॥ 7-119-44(49761)
सञ्जय उवाच। 7-119-45x(4565)
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः।
शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम्॥ 7-119-45(49762)
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः।
प्रापयन्यवनाञ्शनीघ्रं मनः पवनरंहसः॥ 7-119-46(49763)
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्।
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन्॥ 7-119-47(49764)
तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः।
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः॥ 7-119-48(49765)
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः।
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि॥ 7-119-49(49766)
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः।
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्॥ 7-119-50(49767)
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे।
शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले॥ 7-119-51(49768)
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः।
पञ्च षट् सप्त चाष्टौ च भिभेद यवनाञ्शरैः॥ 7-119-52(49769)
काम्भोजानां सहस्रैश्च शकानां च विशाम्पते।
शबराणां किरातानां बर्बराणां तथैव च॥ 7-119-53(49770)
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्।
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम्॥ 7-119-54(49771)
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धदौः।
दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव॥ 7-119-55(49772)
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ।
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम्॥ 7-119-56(49773)
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः।
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम्॥ 7-119-57(49774)
`तेषामस्त्राणि बाणांश्च शैनेयो नतपर्वभिः।
निचकर्त महाराज यवनानां शिरोधराः॥ 7-119-58(49775)
ते शरा नतपर्वाणो युयुधानप्रचोदिताः।
हित्वा देहांस्तथा तेषां पतन्ति स्म महीतले॥ 7-119-59(49776)
ते हन्यमाना वीरास्तु वृष्णिवीरेण संयुगे।
शस्त्राहताः पतन्त्युर्व्यां काम्भोजाः सपदानुगाः॥ 7-119-60(49777)
काम्भोजानां भुजैश्छिन्नैर्यवनानां च भारत।
तत्रतत्र मही भाति पञ्चास्यैरिव पन्नगैः'॥ 7-119-61(49778)
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः।
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः॥ 7-119-62(49779)
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्।
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात्॥ 7-119-63(49780)
काम्भोजसैन्यं विद्राव्य दुर्जयं युधि भारत।
यवनानां च तत्सैन्यं शकानां च महद्बलम्॥ 7-119-64(49781)
ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः।
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्॥ 7-119-65(49782)
तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा।
चारणाः सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम्॥ 7-119-66(49783)
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्॥ ॥ 7-119-67(49784)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः॥ 119 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-119-* एतदादिसार्धसप्तश्लोकस्थाने वक्ष्यमाणः सार्धएव श्लोकः झ.पुस्तकेऽस्ति। सञ्जय उवाच। ततः स सात्यकिर्धामीन्महात्मा वृष्णिपुङ्गवः। सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत्॥ रथाश्वनागकलिलं शरशत्तयूर्मिमालिनम्। 5-119-20 विस्रम्भयन् आश्वासयन्॥ 5-119-33 पारयिष्यामि समापयिष्यामि॥ 5-119-50 वैक्यायसानि शोणितायोमयानि॥ 5-119-52 सुपूर्णयतमुक्तैराकर्णज्योत्सृष्टैः। अव्यवच्छिन्नपिण्डितैरनवच्छिन्नसंहतैः॥ 5-119-119 एकोनविंशत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.